- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- १९९-२१८ पूर्वप्रश्नस्योत्तरम्
आवर्तः २०० – अहंवृत्तौ साक्षिचिदाभासयोर्युगपद्भानम्
हे सोम्य, विस्पष्टं सारतरमुत्तरमुच्यते, शृणु सावधानमनाः। एतच्छ्रवणजन्यज्ञानसूर्यप्रकाशोदयमात्रेण गाढाज्ञानरूपतमो निःशेषं विनयति। हे शिष्य, साक्ष्याभासावुभावप्यहंवृत्तौ युगपदेव प्रतीयेते। वेदान्तप्रकरणेषु सर्वत्र ‘आभासः’ इति शब्देनान्तःकरणसहितचिदाभास एव ग्राह्यः। अन्तःकरणसहितचिदाभासः साक्षिणो विषयतया भाति। साक्षी तु स्वयंप्रकाशतया भाति। चिदाभाससहितान्तःकरणवृत्त्या न साक्षी विषयीक्रियते।
घटादिबाह्यपदार्थज्ञानोत्पत्तिक्रमस्त्वेवम् – इन्द्रियाणां घटादिविषयैः सह संयोगदशायामिन्द्रियद्वारा बहिर्निर्गतान्तःकरणं घटादिविषयसमानाकारतां प्राप्नोति। यथायसा मृदा वा निर्मितमूषायां निषिक्तद्रुतताम्रादिर्मूषासमानाकारतां भजते; एवमन्तःकरणवृत्तिरपि घटादिसमानाकारतां भजते। इयञ्च वृत्तिश्चैतन्याभाससहितैव जायते, नाभासं विनोदेति। वृत्तिरन्तःकरणस्य परिणामः। अन्तःकरणपरिणामस्य वृत्तिः इति संज्ञा। अन्तःकरणं हि सत्त्वगुणकार्यत्वात् स्वच्छम्। अतस्तत्र चैतन्याभासो जायते। तथैव वृत्तेरपि स्वच्छान्तःकरणकार्यत्वात् तत्रापि चैतन्याभासो जायते। उत्पद्यमाना सा वृत्तिः साभासान्तःकरणादेवोत्पद्यते। अतोऽपि कारणात् वृत्तिराभासविशिष्टैवोदेति।