ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि

- १६९-२२५ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः

आवर्तः १९९ – प्रश्नः

हे स्वामिन्, अहंवृत्तौ साक्षिचिदाभासयोः प्रतिभानं भवतीति भवतोक्तम्। तत्र किं तयोर्युगपत् प्रतीतिर्जायते, उत कालभेदेनेति मे संशयः। तन्मे भवान् विस्पष्टं बोधयतु।