ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः


आवर्तः १९८ – अहंशब्दस्य द्वावर्थौ, तत्र कूटस्थस्य ब्रह्मणा मुख्यसामानाधिकरण्यं, चिदाभासस्य बाधायां सामानाधिकरण्यं च

हे सोम्य। ‘अहं ब्रह्म’ इति ज्ञानं बुद्धिसहिताभासस्यैव जायते, न तु कूटस्थस्य। तथापि स आभासः कूटस्थं स्वस्वरूपं चैकीकृत्य स्वात्मतया ‘अहं’ इति जानाति। तथा च कूटस्थसहितचिदाभासः ‘अहम्’ इटि शब्देन गृह्यत इति, स एव अहंशब्दस्यार्थः। तत्र ‘अहम्’ इति शब्देन प्रतीयमानकूटस्थस्य सर्वदा ब्रह्मणा सहाभेदः सिद्ध एव यथा घटाकाशमहाकाशयोरभेदः सर्वदा सिद्धस्तद्वत्। अनेनैव हेतुना कूटस्थस्य ब्रह्मणा सह *१ मुख्यसामानाधिकरण्यं वेदान्तशास्त्रेष्वभिधीयते। यस्य वस्तुनो येन वस्तुना सह सदाभेदसंबन्धोऽस्ति तस्य वस्तुनस्तेन वस्तुना सह मुख्यसामानाधिकरण्यम् उच्यते। यथा घटाकाशस्य महाकाशेन सह मुख्यसामानाधिकरण्यं भवति। इत्थं कूटस्थब्रह्मणोः सदाऽभेदस्य सत्त्वात् कूटस्थस्य ब्रह्मणा सह मुख्यसामानाधिकरण्यं भवति। तस्मादहमितिशब्दबोध्यस्य कूटस्थस्य ब्रह्मणा सह सदाऽभेद एवास्ते।

*१. समानविभक्तिकत्वे सति एकार्थबोधकत्वं ययोः पदयोरस्ति ते पदे परस्परं समानाधिकरणे इति, तयोः पदयोः परस्परसंबन्धः सामानाधिकरण्यसंबन्ध इति चोच्यते। इदं च सामानाधिकरण्यं जीवब्रह्मैक्यबोधकसमानविभक्तिमत्पदघटितचतुर्वेदान्तर्गतचतुर्विधमहावाक्येषूपलभ्यते। तथान्यत्रापि लौकिकवैदिकवाक्येषु बोध्यम्।

इदं च सामानाधिकरण्यं द्विधोच्यते – मुख्यसामानाधिकरण्यम्, बाधायां सामानाधिकरण्यं इति च। तत्र समानसत्ताकत्वेन समानस्वरूपत्वेन च वास्तवभेदशून्ययोर्द्वयोः पदार्थयोर्बोधकवाक्यगतपदद्वयस्य मुख्यसामानाधिकरण्यम् उच्यते। तच्च घटाकाशमहाकाशपदयोः, कूटस्थब्रह्मशब्दयोश्चास्ति।

भिन्नसत्ताकयोरुभयोः पदार्थयोः समानविभक्तिकत्वबलेनैक्यप्रतिपादकवाक्यस्थपदद्वयस्य बाधायां सामानाधिकरण्यं बोध्यम्। तच्च स्थाणुपुरुषपदयोः जगद्ब्रह्मपदयोः, बिम्बप्रतिबिम्बपदयोश्च वर्तते।

‘अहम्’ इति शब्देन प्रतिभासमानचिदाभासस्य तु ब्रह्मणा सह स्वस्वरूपबाधपूर्वकमेवाभेदः सिद्ध्यति। तस्मात् वेदान्तशास्त्रेष्वाभासस्य ब्रह्मणा सह बाधायां सामानाधिकरण्यमेवोच्यते। यस्य हि वस्तुनः स्वरूपनाशपूर्वकं येन वस्तुना सहाभेदो जायते, तस्य वस्तुनस्तेन वस्तुना सह बाधायां सामानाधिकरण्यम् उच्यते। यथा मुखप्रतिबिम्बस्य स्वरूपबाधपूर्वकं मुखरूपबिम्बेनाभेदस्य दृष्टत्वात्प्रतिबिम्बो मुखमेव नान्यत्, अतः प्रतिबिम्बस्य बिम्बेन सह बाधायामेव सामानाधिकरण्यं भवति यथा वा स्थाणौ पुरुषभ्रमानन्तरं विचारात् स्थाणुत्वेन ज्ञाने सति पुरुषः स्थाणुरेव’ इति पुरुषस्य स्थाणुना सह बाधायामेव सामानाधिकरण्यं जायते; तथाभासस्यापि बाधानन्तरमेव ब्रह्मणा सहाभेदः संभवति।

तस्मात् ‘अहम्’ इति शब्दबोध्याभासो ब्रह्मैव, न ततोऽन्यः। आभासस्य ब्रह्मणा सहेदृशं बाधायां सामानाधिकरण्यं संभवति।

हे सोम्य। इत्थमेव ‘अहम्’ इति शब्दगम्यस्य कूटस्थस्य ब्रह्मणा सह मुख्याभेदः, आभासस्य तु बाधायामभेदः इति जानीहि।