- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः
आवर्तः १९७ – “अहं ब्रह्म” इत्याभासस्य जायमानं ज्ञानं मिथ्या स्यादित्याक्षेपस्याशयोद्घाटनम्
गूढाभिसन्धिः शिष्यः स्वाभिसन्धिमुद्धाटयति। हे स्वामिन् सद्गुरो। कूटस्थो ब्रह्माभिन्नः, आभासो ब्रह्मणो भिन्न इति च प्रागुपदिष्टम्। तत्र ब्रह्मणो विभिन्नस्याभासस्य ‘अहं ब्रह्म’ इति ब्रह्माभिन्नत्वज्ञानं नैव घटेत। ‘ममाधिष्ठानभूतकूटस्थो ब्रह्म’ इति ज्ञानं यद्याभासस्य जायेत, तद्यथार्थज्ञानं भवेत्, न तु ‘अहं ब्रह्म’ इति ज्ञानम्। ‘अहम्’ इति शब्दः स्वकीयं निजं स्वरूपमवगमयति। आभासस्य निजं स्वरूपं तु मिथ्यैव। अत एवायं ब्रह्मणो भिन्नः। तस्माद्ब्रह्मणो विभिन्नस्याभासस्य ‘अहं ब्रह्म’ इति स्वस्य ब्रह्माभिन्नत्वज्ञानं मिथ्यैव स्यात्। सर्पाद्विलक्षणायां रज्ज्वां सर्प इति ज्ञानं यथा मिथ्या, तद्वत्। मिथ्या नाम भ्रान्तिः। वेदान्तप्रमाणजन्यमिदं *१ ब्रह्मज्ञानं भ्रान्तिरूपमिति वदितुं न युज्यते।
१. अत्रैवं शिष्यः प्रष्टव्यः ‘ब्रह्मज्ञानं मिथ्या, मिथ्यात्मकसंसारान्तर्गतचिदाभासाश्रितत्वात्; अतोऽनेन मिथ्याज्ञानेन संसारः, मृगतृष्णिकाम्बुना पिपासावत्, कथं निवर्तेतेति पृच्छसि वा; अथवा ब्रह्मज्ञानं मिथ्या, मिथ्याभूतजीवब्रह्मैक्यविषयकत्वात्; रज्जुसर्पैक्यज्ञानवत्; अतोऽनेन मिथ्याज्ञानेन कथं संसारनिवृत्तिः स्यादिि पृच्छसि वा’ इति। उभयमेवेति चेत् — उच्यते।
तत्र तावत् वेदान्तप्रमाणजन्यमनोवृत्त्यात्मकब्रह्मज्ञानं स्वरूपतो मिथ्येति निःशङ्कमस्माभिरभ्युपगतमेव, ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वात्। तथापि तादृशमिथ्याभूथज्ञानेन मिथ्यात्मकसंसारनिवृत्तिरप्युपपद्यत एव ‘यक्षानुरूपोऽयं बलिः’ इति न्यायात्। यस्मान्मिथ्याभूतः संसारस्तस्मात्तन्निवर्तकेन ज्ञानेनापि मिथ्याभूतेनैव भाव्यम्। अथवा ‘समानसत्ताकयोरेव पदार्थयोः परस्परं साधकबाधकभावः’ इति नियमादपि मिथ्याभूतज्ञानेनैव मिथ्याभूतसंसारनिवृत्तिः संभवति। मृगतृष्णिकाम्बुपिपासयोस्तु न समसत्ताकत्वमस्ति, तयोः प्रातिभासिकत्वव्यावहारिकत्वरूपविषमसत्ताकत्वात्। अत एव मृगतृष्णिकोदकेन प्रातिभासिकेन व्यावहारिक पिपासाशान्तिर्न संभवति। अयमर्थः पञ्चमतरङ्गे स्पष्टीभविष्यति। चिदाभासब्रह्मणोरैक्यरूपज्ञानस्य यो विषयः स मिथ्यैव। ततस्तद्विषयकज्ञानमपि मिथ्या स्यादिति द्वितीयप्रश्नस्योत्तरमधुनोच्यतेऽत्रैव मूले १९८ आवर्ते।