ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः
- १९०-१९६ प्रागुक्तप्रश्नस्योत्तरम्


आवर्तः १९६ – अतिहर्षस्वरूपवर्णनम्

हे शिष्य। ‘अहं अद्वितीयब्रह्मैवास्मि’ इत्येवं निर्विचिकित्सं स्वात्मस्वरूपसाक्षात्काररूपं ज्ञानं यदा तव जायते तदा तव निरतिशयानन्दानुभवो भवत्येव। अयमेव *१ महाहर्षः इत्युच्यते।

प्रदर्शिताः सप्तावस्थाश्चिदाभासस्यैव। ‘अहं ब्रह्म’ इति ज्ञानं पञ्चम्यामवस्थायामन्तर्गतं भवति।

*१. महाहर्षरूपोऽयमानन्दः पञ्चदश्यां तृप्तिदीपे विद्यारण्यमुनिभिः निरङ्कुशा तृप्तिः’ इति व्यपदिष्टः। “साङ्कुशा विषयैस्तृप्तिरियं तृप्तिर्निरङ्कुशा” (२५२)। विषयानन्दस्तु सातिशयत्वादुत्तरोत्तरानन्देच्छां जनयतीति हेतोः ‘साङ्कुशा’ इत्युच्यते। आत्मानन्दस्तु स्वस्मादुत्कृष्टानन्दाभावान्निरङ्कुशो भवति।

दशमपुरुषाख्यायिकायां दशम आत्मानं विहायेतरान् नवैव पुरुषान् गणयन् स्वस्य दशमत्वं न जानातीति यत् तदेव अज्ञानम्। ‘दशमो नास्ति न भाति’ इत्येतद् आवरणम्। ‘दशमो ममार’ इति कल्पयित्वा रोदनं शोकः। अयमेव भ्रान्तिः विक्षेपः इति च कथ्यते। ‘दशमो न मृतः, जीवति सः’ इत्याप्तोक्त्या दशमसत्त्ववेदनं परोक्षज्ञानम्। ‘त्वमेव दशमोऽसि’ इति साक्षादुपदिष्टः सन् पुनरपि गणनसमये स्वात्मानं दशमत्वेन गणयित्वा आत्मानं दशमत्वेन जानातीति यत् तदेव अपरोक्षज्ञानम्। ईदृशादपरोक्षज्ञानाद्रोदननिवृत्तिरेव भ्रान्तिनाश:। स्वस्यैव दशमत्वज्ञानात् जायमानसन्तोषः अतिहर्षः। आस्ववस्थासु ‘अज्ञानम्, आवरणम्, विक्षेपः’ इतीमास्तिस्रोऽवस्था बन्धकारणानि भवन्ति। अवशिष्टास्त्ववस्थाश्चतस्रोऽपि मोक्षसाधनानि भवन्ति।