-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः
- १९०-१९६ प्रागुक्तप्रश्नस्योत्तरम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः
- १९०-१९६ प्रागुक्तप्रश्नस्योत्तरम्
आवर्तः १९५ – भ्रान्तिनाशस्वरूपम्
‘मयि जननमरणादिभावविकारो नास्ति, मयि सुखदुःखादिकं लेशतोऽपि नास्ति, संसारधर्मगन्धोऽपि मयि नास्ति, किन्त्वहं जन्मादिविकारशून्यकूटस्थ एवास्मि’ इत्येवमात्मनि सर्वानर्थानां निषेध एव भ्रान्तिनाशस्वरूपम् इत्यवधेयम्। अत्र च कूटस्थे जन्मनिषेधात्सर्वानर्था अपि निषिद्धा एव भवन्ति, जन्मानन्तरभावित्वादितरानर्थव्रातानाम्। आत्मनि जन्मनिषेधात् षडपि भावविकारा निषिद्धा भवन्ति। अयमेव भ्रान्तिनाशः शोकनाशशब्देनाप्युच्यते।