ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः
- १९०-१९६ प्रागुक्तप्रश्नस्योत्तरम्


आवर्तः १९४ – परोक्षापरोक्षज्ञानस्वरूपम्

‘ब्रह्म नास्ति’ इत्यसत्त्वापादकावरणांशं ‘अस्ति ब्रह्म’ इति वेदान्तवाक्यजन्यपरोक्षज्ञानं नाशयति। ‘ब्रह्म सत्यज्ञानानन्तस्वरूपं *२ भवति’ इति ज्ञानं परोक्षज्ञानम् इत्युच्यते।

*२. देशकालवस्तुभिर्यस्यान्तो (परिच्छेदः) न भवति, किन्तु सर्वदेशसर्वकालसर्ववस्तुषु च व्याप्य यद्वर्तते तद् अनन्तम्, विभु, भूमा इति चोच्यते। अत्र ‘अनन्तं ब्रह्म’ इत्युक्त्या ‘आनन्दरूपं ब्रह्म’ इत्यर्थात्सिद्ध्यति। अयमेवार्थः छान्दोग्यसप्तमाध्याये नारदाय सनत्कुमारेणोपदिष्टः। “यो वै भूमा तत्सुखम्, नाल्पे सुखमस्ति, भुमैव सुखम्, भुमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञासे इति” (छा. ७.२३.१)। “यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यत्रान्यत्पश्यति अन्यच्छृणोत्यन्यद्विजानाति तदल्पम्। यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्” (छा. ७.२४.१)। “स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदँ सर्वम्” (छा. ७.२५.१) इति। अत्र योऽनन्तरूपो भवति स भूमा भवति, यो भूमा स आनन्दरूपो भवतीत्युक्तम्। अत आनन्तत्वादेव ब्रह्मण आनन्दरूपत्वमपि सिद्धम्।

इदञ्च परोक्षज्ञानं ‘नास्ति ब्रह्म’ इति प्रतीतिविरोधि, न त्वन्यस्य कस्यचिदपि विरोधि। ‘अहं ब्रह्म’ इति दृढतरनिर्विचिकित्सापरोक्षज्ञानन्तु सकलस्याविद्यातत्कार्यस्य विरोधि। अत एवेदम् अपरोक्षज्ञानम् (१) ‘अहं ब्रह्म न वेद’ इत्यज्ञानम्, (२) ब्रह्म नास्ति न भाति चेत्यावरणद्वयम्, (३) ‘नाहं ब्रह्म किन्तु पुण्यपापादिकर्ता तत्फलानां सुखदुःखानां भोक्ता च जीवः’ इति भ्रान्तिः, चेत्येतावन्तमविद्यासमूहं नाशयति।