ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः
- १९०-१९६ प्रागुक्तप्रश्नस्योत्तरम्


आवर्तः १९३ – भ्रान्तिस्वरूपम्

कूटस्थे भासमानजन्मादिसंसारो वेदे भ्रान्तिः इत्युच्यते। अयमेव संसारः शोकशब्देनाप्युच्यते। “तत्र को मोहः कः शोक एकत्वमनुपश्यतः” (ई. ७) “तरति शोकमात्मवित्” (छा. ७.१.३) “भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” (मु. २.८) “मत्त परतरं नान्यत् किञ्चिदस्ति धनञ्जय” (भ. गी. ७.७) “न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः” (भ. गी. ५.१४) “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” (भ. गी. ५.१५) “वासुदेवः सर्वमिति स महात्मा सुदुर्लभः” (भ. ७.१९) इत्यादिश्रुतिस्मृतिभिः संसारस्यात्मैकत्वज्ञानमात्रनिवर्त्यत्वबोधिकाभिर्भ्रममात्रत्वं *१ बोधितम्।

*१. देहेन्द्रियप्राणमनोहङ्कारादीनां जन्मादितद्विकाराणां चात्मनि प्रत्यक्चैतन्ये भ आत्मनस्तद्धर्माणां सत्यज्ञानानन्तानन्दादीनां चानात्मनि भानं चाध्यास इत्युच्यते। अस्यैव भ्रान्तिः, विक्षेपः, शोकः इत्यादिव्यपदेशाः।