-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः
- १९०-१९६ प्रागुक्तप्रश्नस्योत्तरम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १८९-१९८ “अहं ब्रह्म” इति ज्ञानं कस्येति विचारः
- १९०-१९६ प्रागुक्तप्रश्नस्योत्तरम्
आवर्तः १९२ – अज्ञानावरणयोः स्वरूपम्
हे सोम्य, ‘अहं ब्रह्म न जाने’ इति व्यवहारे कारणम् अज्ञानम्। ‘ब्रह्म नास्ति, न भाति´ इति व्यवहारकारणं तु आवरणम्। आवरणेन द्विविधो व्यवहारो भवति, यतोऽज्ञानस्य शक्तिद्वयं वर्तते। तत्रैका शक्तिरसत्त्वापादिका, अन्या अभानापादिका। उभयोरपि शक्त्योः आवरणम् इति साधारणं नाम। ‘वस्तु नास्ति’ इति प्रतीतिहेतुभूता शक्तिः असत्त्वापादिका इति, ‘वस्तु न भाति’ इति प्रतीतिहेतुभूता शक्तिः अभानापादिका इति चोच्यते। इत्थं ‘ब्रह्म नास्ति’ इति व्यवहारकारणमज्ञानस्यासत्त्वापादिका शक्तिरेव। ‘ब्रह्म न भाति’ इति व्यवहारकारणमज्ञानस्याभानापादिका शक्तिरेव। अनयोः शक्त्योः साधारणाभिधा आवरणमिति।