ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७३-१७६ चतुर्विधाकाशवर्णनम्


आवर्तः १७४ – जलाकाशः

जलपूर्णेघटे *१ नक्षत्रादिसहिताकाशः प्रतिबिम्बति। तादृशाकाशप्रतिबिम्बो घटाकाशश्चेत्युभयं मिलित्वा जलाकाश इत्युच्यते।

*१. जलपूरितघटे दृश्यमानाकाशप्रतिबिम्बो घटान्तर्वर्त्याकाशप्रतिबिम्ब इति शङ्काव्यावृत्तये नक्षत्रादिसहितेत्याकाशविशेषणम्। अपि च जलं विना प्रतिबिम्बासंभवात् ‘आकाशप्रतिबिम्बः’ इत्यनेन घटस्थजलसहिताकाशप्रतिबिम्बो ग्राह्यः।

नन्वाकाशस्य प्रतिबिम्बो न युज्यते, किन्तु केवलनक्षत्रादीनामेव स युज्यते। रूपाभावान्नाकाशस्य प्रतिबिम्बः संभवति। रूपवतो हि प्रतिबिम्ब: स्यात्। तस्मान्नाकाशस्य प्रतिबिम्बो युज्यत इति चेन्न। जले आकाशप्रतिबिम्बानभ्युपगमे गोष्पदपरिमाणकस्वल्पजले महागजादिपरिमाणकगभीरतायाः प्रतिबिम्बो न स्यात्। तथोपलभ्यमानत्वादाकाशप्रतिबिम्बोऽङ्गीकार्य एव। न च नीरूपपदार्थप्रतिबिम्बो नास्तीति वाच्यम्। नीरूपस्यापि शब्दस्य प्रतिध्वनिदर्शनात्। स च प्रतिध्वनिः शब्दस्य प्रतिबिम्ब एव। *२ तस्मान्नीरूपस्याप्याकाशस्य प्रितबिम्बो युज्यत एव।

*२. गुणो गुणमाश्रित्य न तिष्ठति, किन्तु द्रव्यमेवेति नियमः। अतश्च गुणत्वेनाभिमतानि नीलपीतादिवर्णानि नीरूपाण्येव। तथापि तेषां स्वच्छदर्पणादौ प्रतिबिम्बो दृष्टः। एवमेव रूपरहितयोराकाशचैतन्ययोश्च प्रतिबिम्बः संभवेदेव।