ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्
- १७३-१७६ चतुर्विधाकाशवर्णनम्


आवर्तः १७५ – मेघाकाशः

तावानाकाशः, मेघस्थितये यावानाकाशोऽवकाशं ददाति मेघजले प्रतिबिम्बिताकाशश्चेत्युभयं मिलित्वा मेघाकाश इत्यभिधीयते। नन्वाकाशेऽस्ति मेघः। तत्र मेघे जलमाकाशप्रतिबिम्बश्चास्तीत्यत्र किं मानमिति चेन्न। यद्यपि मेघे जलस्याकाशप्रतिबिम्बस्य च न प्रत्यक्षतो ग्रहणमथाप्यनुमानेन ग्रहणं संभवत्येव। तथा हि, मेघाज्जलवृष्टेर्दर्शनात्तत्र जलमस्तीत्यनुमीयते। यदि मेघे जलं न स्यात्तर्हि ततो जलवृष्टिर्न स्यात्। किञ्च, मेघस्थं जलमाकाशप्रतिबिम्बविशिष्टम्, स्वच्छद्रव्यत्वात्, दर्पणादिवत्’ इत्यनुमानेन मेघस्थजले आकाशप्रतिबिम्बानुमानं च सिद्ध्यति। यद्यस्ति जलं तर्हि तज्जलमाकाशप्रतिबिम्बेन विना न स्यादिति हि नियमः। एवं मेघे जलम्, तत्राकाशप्रतिबिम्बश्चानुमानेन प्रसिद्ध्यति।