ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १७२-१८५ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्

- १७२-१८५ चतुर्विधाकाशवर्णनम्

आवर्तः १७३ – घटाकाशः

जलपूरितघटावस्थानाय यावानाकशोऽवकाशं ददाति तावानाकाशः *१ घटाकाश इति पण्डितैरुच्यते।

*१. ननु घटात् बहिः स्थित आकाशो महाकाशः, तस्माद्भिन्नो घटान्तर्वर्त्याकाशो घटाकाश इति च प्रसिद्धिः। तत्र घटाकाशस्य प्रसिद्धं लक्षणं विहाय लक्षणान्तरकरणे किं प्रयोजनमिति चेदत्रोच्यते। ‘घटान्तर्वर्त्याकाशो घटाकाशः’ इति प्रसिद्धलक्षणस्वीकारे घटो यत्र वर्तते स आकाशः पञ्चमः कपालाकाश इति वक्तव्यं भवेत्। स च पञ्चमप्रकार आकाशः शास्त्राप्रसिद्धः ; [सिद्धान्ते आरम्भवादानङ्गीकारात् ]। तस्मादिदं द्वितीयं लक्षणमाश्रितं साधुः।