ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्

- १६९-१८८ स्वरूपभेदाज्जीवब्रह्मणोरैक्यासङ्गतिरिति शङ्कायाः समाधानम्

आवर्तः १७२ – आकाशस्येव चैतन्यस्यापि चतुर्विधो भेदः

हे सोम्य। त्वत्सन्देहनिवर्तकविचाररूपमुपदेशं शृणु यथा एकस्यैवाकाशस्य घटाकाशः, (२) जलाकाशः, (३) मेघाकाशः, (४) महाकाश इति चतुर्विधभेदोऽस्ति तथा एकस्यैव चैतन्यस्य (१) कूटस्थः, (२) जीवः, (३) ईश्वरः, (४) ब्रह्म चेति भेदचतुष्टयम् अस्ति। एषां स्वरूपं विचारपूर्वकं यदा सम्यग्विजानासि तदा त्वदीयसन्देहानां समाधानं त्वं सवयमेव जानीयाः। अतस्तेषां स्वरूपं मयाभिधीयमानमवधारय। तदधिगमेन तव निःसंशयज्ञानोदयद्वारा जन्मादिदुःखं निःशेषं विनश्येत्।