- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १६९-१७१ जीवब्रह्माभेदविषये तत्त्वदृष्टिप्रश्नः
आवर्तः १७१ – श्रुत्याकर्मोपासनविधिबलाच्च जीवब्रह्मभेदशङ्का
हे स्वामिन्। मम संशयान्तरमपि जायते। श्रुत्यैव वक्ष्यमाणप्रकारेण जीवब्रह्मणोर्भेदः प्रतिपाद्यते “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाये। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति” (मु. ३.१.१, श्वे. ४.६) इति हि श्रुतिः।
अयमर्थः – बुद्धिरूपे एकस्मिन् वृक्षे द्वौ पक्षिणौ वसतः। तावुभावपि समानस्वभावौ। तत्रैकः कर्मफलभोक्ता अपरः शुद्धो भोगरहितोऽसङ्गः सन् कर्मफलभोक्तारं प्रकाशयति। अनयोः कर्मफलभोक्ता जीव इति, अपरः परमात्मेति च प्रतीयते। इत्येवं श्रुत्यैव जीवब्रह्मणोर्भेदप्रतिपादनान्न तयोरैक्यं युक्तम्।
किञ्च, वेदे नानाप्रकाराणि कर्माण्युपासनानि च तत्र तत्र कथितानि। तानि निरर्थकानि स्युर्जीवब्रह्मणोरेकत्वाभ्युपगमे। तथा हि – जीवब्रह्मणोरेकत्वम्, किं ब्रह्मणि जीवस्वरूपान्तर्भावात् किं वा जीवे ब्रह्मस्वरूपान्तर्भावात्। नोभयथापि संभवति। ब्रह्मणि जीवस्वरूपान्तर्भावाभ्युपगमे जीवस्यैव ब्रह्मरूपत्वात् कर्मोपासनाद्यधिकार्यभावप्रसङ्गात् कर्मोपासनादीनि निरर्थकानि स्युः। जीवे च ब्रह्मस्वरूपान्तर्भावाभ्युपगमे जीवभावापन्नत्वाद्ब्रह्मण उपास्याभावप्रसङ्ग इत्युपासनावाक्यानि निष्फलानि स्युः। अपि च कर्मफलदातुरीश्वरस्याभावात् कर्मानुष्ठानमपि निष्फलं स्यात्। ‘कर्मातिरिक्त ईश्वरो नास्ति, स्वतन्त्रं कर्मैव फलं ददाति’ इति मीमांसकोक्तिरपि न युज्यते; जडत्वात्कर्मणः। न हि जडस्य कर्मणः फलदातृत्वरूपसामर्थ्यं घटते। अतः सर्वज्ञादेवेश्वरात् कर्मफलसिद्धिर्वाच्या। तस्माज्जीवात्मपरमात्मनोरेकत्वं न युज्यते इति। अयञ्च प्रमाणगतसंशयः।