ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १६९-१८८ जीवब्रह्मणोरभेदनिरूपणम्
- १६९-१७१ जीवब्रह्माभेदविषये तत्त्वदृष्टिप्रश्नः


आवर्तः १७० – जीवब्रह्मणोः स्वरूपभेदात् तयोरैक्यमसङ्गतमिति शङ्का

हे स्वामिन्। अहं हि पुण्यपापयोः कर्ता, तत्फलभूतजननमरणसुखदुःखादीन्यनुभवामि। विचित्ररचनाविशिष्टं जगन्मयि प्रतिभाति। जगत्कारणीभूतमूलाज्ञाननिवृत्तयेऽहं ब्रह्म विजिज्ञासे। ब्रह्मणस्तु पुण्यपापे न स्तः। जन्ममरणसुखदुःखादिक्लेशलेशोऽपि ब्रह्मणो न संभवति। अत एव तस्य न ज्ञानेच्छापि। तस्मान्मम ब्रह्मणश्च मिथः स्वरूपतो भेद एव वर्तते। ततो द्वयोरैक्यं नैव घटे। यद्यपि जन्मादिसंसारः परमार्थतो मय्यपि नास्त्येव, तथापि मिथ्याभूतो जन्ममरणात्मकः संसारो मयि स्वप्नवत् भ्रान्त्या प्रतिभाति। ब्रह्मणि तु तन्नैव प्रतिभाति। जीवब्रह्मणोरित्थं भेदसद्भावादैक्यं न संभवति। अयं च प्रमेयगतसंशयः।