-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२२-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १२२-२२५ जीवब्रह्मणोरभेदनिरूपणम्
- १२२-२२५ जीवब्रह्माभेदविषये तत्त्वदृष्टिप्रश्नः
- १२२-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १२२-२२५ जीवब्रह्मणोरभेदनिरूपणम्
- १२२-२२५ जीवब्रह्माभेदविषये तत्त्वदृष्टिप्रश्नः
आवर्तः १६९ – गुरूपदेशं संग्रहेणानूद्य शिष्यः स्वशङ्कां सूचयति
हे स्वामिन्। जगत्कारणमज्ञानम्, तस्याज्ञानस्य तत्प्रयुक्तजगतश्च नाशो ज्ञानेनैव जायते’ इति भवदुपदिष्टं सम्यगवगच्छामि। परन्तु ‘जगन्मिथ्या, जीव आनन्दस्वरूपः, अतश्च स जीवो ब्रह्मणो न भिन्नः’ इति भवतोपदिष्टेऽर्थे जगन्मिथ्यात्वम्, जीवस्यानन्दरूपत्वं चावगच्छामि। ‘जीवो ब्रह्माभिन्नः’ इत्यंशं तु नावधारयामि, तयोर्भेदशङ्कैव मे मनसि परिवर्तते, इति तत्त्वदृष्टिः पृच्छति।