-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १६७-१६८ गुरोरुत्तरम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १६७-१६८ गुरोरुत्तरम्
आवर्तः १६८ – ज्ञानमेवाज्ञाननाशकं, न कर्मोपासनादि
हे सोम्य। अस्य जगत उपादानकारणमज्ञानम्। अस्याज्ञानस्य नाशमनु तत्कार्यं सर्वं दृश्यं जगत् स्वयमेव विनश्यति, उपादाननाशानन्तरं तत्कार्यस्य स्थित्ययोगात्। तस्याज्ञानस्य नाशस्तु ज्ञानमात्रेण जायते, न तुकर्मोपासनादिभिः साधनान्तरैः; यतो ज्ञानमेव साक्षादज्ञानविरोधि न कर्मोपासनादिकम्। यथा गृहान्तर्विद्यमानं तमः केनापि व्यापारेणानिवर्त्यमपि केवलप्रकाशेन निवर्त्यते तथाज्ञानरूपं निबिडं तमो ज्ञानात्मकप्रचण्डप्रकाशेनैव निवर्त्येत, न तु केनचिदपि साधनान्तरेण। हे सोम्य। द्वैतरूपं जगत् यथा निःशेषं निवर्तेत तथाहं ते साधनमुपादिशम्। तदेतन्मनसि धारयन् पुनःपुनर्युक्तिभिरनुचिन्तय। ततोऽपि संशयो यदि स्याद्यथेच्छं पृच्छेति गुरुराह।