ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः

- १३३-१६८ गुरोरुत्तरम्

आवर्तः १६७ – आत्माज्ञानहेतुकसंसारनिवृत्तावात्मज्ञानमेवोपायः

हे शिष्य। जगद्रूपदुःखस्यात्यन्तनिवृत्तये पृष्ट उपायः प्रागेव निरूपितः। श्रद्धाभक्तिपुरःसरं तत्र दृढनिश्चयः क्रियताम्। ततो जगद्रूपदुःखमणुमात्रमपि त्वयि न दृश्येत। हे सोम्य। अद्वितीयासङ्गचिन्मात्ररूपस्वात्मस्वरूपस्यापरिज्ञानाज्जगद्रूपदुःखं तव प्रतिभाति। तच्च तवात्मस्वरूपपरिज्ञानमात्रान्निवर्तेत। यद्वस्तु यस्याज्ञानाद्भवति तद्वस्तु तस्य ज्ञानमात्रान्निवर्तत इति नियमः। रज्ज्वज्ञानात्प्रतीयमानः सर्पः ‘रज्जुरेवेयम्’ इति रज्जुज्ञानमात्राद्यथा निवर्तते, तथा आत्मज्ञानात्प्रतीयमानं जगदप्यात्मतत्त्वसाक्षात्कारमात्रेण निवर्तेत।

तच्चात्मतत्त्वज्ञानमुपदिष्टपूर्वमपि भूयोऽनुव्याख्यास्यामि – कालत्रयेऽपि मयि जगदणुमात्रमपि नास्ति, मिथ्यात्वात्, स्वप्नवत्। यन्मिथ्या तदधिष्ठानं न दूषयेत्। न हि मरीच्युदकमूषरदेशमार्द्रीकरोति। तथा मयि प्रतीयमानमपीदं जगत् मिथ्यात्वान्न मे कामपि हानिं कर्तुं प्रभवति। अहं सच्चिदानन्दानन्ताद्वितीयासङ्गब्रह्मस्वरूप एवास्मि इत्येवं निश्चय एव ज्ञानम् इत्युच्यते। एतदेव ज्ञानमासुप्तेरामृतेश्च निरन्तरमभ्यस्यमानं मोक्षसाधनम्, नान्यत् किञ्चिदपि। तदिदं ज्ञानं पूर्वमेवोपदिष्टवानस्मीति गुरुराह।