- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
आवर्तः १६६ – मिथ्यासंसारस्यापि दुःखहेतुत्वात् तन्निवृत्त्युपायप्रश्नः
हे स्वामिन्। ‘जगत् त्वयि मिथ्यैव स्वप्नादिवत् प्रतिभाति, न चास्ति तत् परमार्थसद्रूपेण’ इति यदुक्तं तत्सत्यमेव। तथापि, यथा मयि मिथ्यारूपेण वा रूपान्तरेण वा स जननमरणादिरूपः संसारो न प्रतिभासेत, तथा उपायः कृपयोपदिश्यतां मह्यम्। ‘मिथ्याभूतसंसारनिवृत्तये साधनान्वेषणं तव न युज्यते’ इति भवदुक्तं यद्यपि सत्यमेव तथापि यस्य मिथ्यापदार्थो दुःखहेतुर्भवति तेन स मिथ्यापदार्थस्तन्निवृत्तिसाधनैर्निवर्तनीय एव भवति। तथा हि कस्यचित् प्रतिदिनं भयङ्करदुःस्वप्नदर्शनं जायते। स च मिथ्याभूतस्यापि तस्य स्वप्नस्य निवृत्तये जपपादप्रक्षालनाद्यनेकोपायाननुतिष्ठति। तथा मिथ्याभूतोऽप्ययं संसारो जन्मादिदुःखहेतुत्वेन मे प्रतिभाति। अतस्तन्निवर्तनमिच्छामि। तस्मात्तन्निवृत्त्युपायं कृपया वद भोः इति शिष्यप्रश्नः।