ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः


आवर्तः १६५ – मिथ्यासंसारनिवर्तनेच्छा नोचिता

हे सोम्य। इत्थं मिथ्याभूतं संसारदुःखं भ्रान्त्या त्वयि प्रतिभासते। तस्मान्मिथ्यासंसारदुःखनिविवृत्सा तव न युज्यते। तत्रायं दृष्टान्तः यदि कश्चन मान्त्रिकः कस्मैचित् पुरुषाय स्वमन्त्रप्रभावान्मिथ्याभूतं शत्रुं प्रदर्शयति तदा तच्छत्रुविनाशाय न स पुरुषो यतते; तद्वन्मिथ्याभूतसंसारनिवृत्तये तवेच्छा न युज्यते। तथा चोक्तं गौडपादैर्माण्डूक्योपनिषत्कारिकायाम् –

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥ (मा. आ. १७) इति।

तथा वराहोपनिषदि चोक्तम् –
अज्ञानमेव न कुतो जगतः प्रसङ्गो
जीवेशदेशिकविकल्पकथातिदूरे।
एकान्तनिर्मलचिदेकरसस्वरूपं
ब्रह्मैव केवलमहं परिपूर्णमस्मि॥ इति।