ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः


आवर्तः १६४ – तत्र समाधानम्

लोके यद्यन्मिथ्यावस्तु, तत्सर्वं स्वाधिष्ठाने कल्पितं भवति। अधिष्ठानं च द्विविधम् एकं चेतनात्मकमपरं जडात्मकमिति। यत्राधिष्ठानं जडमित्यङ्गीक्रियते, तत्राधिष्ठानादन्य एव द्रष्टा भवति। यत्र चेतनमधिष्ठानम्, तत्र स्वस्मिन्नारोपितस्य सर्वस्याधिष्ठानमेव द्रष्टृ, नान्यत्। यथा स्वप्नप्रचञ्चस्याधिष्ठानं साक्षिचैतन्यम्; तदेव तद्द्रष्टृ च भवति। एवमेवास्य जाग्रज्जगतोऽप्यात्मैवाधिष्ठानम्: स एव तस्य द्रष्टा च।

मन्दाधिकारिसमाधानार्थं स्थूलदृष्ट्या रज्ज्वादिकं सर्पाद्यध्यासाधिष्ठानमित्याश्रित्यैतादृशशङ्कासमाधाने कृते। परमार्थतस्त्वद्वैतसिद्धान्ते सर्पाद्यध्यासाधिष्ठानं साक्षिचैतन्यमेव, द्रष्टृ च तदेव। तस्मात् कल्पितसकलदृश्याण्डकोटिसहस्राणामधिष्ठानभूतात्मैव द्रष्टा। नास्मिन् पक्षे शङ्कासमाधानादिकं प्रसज्यत इति गुरुराह।