ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः


आवर्तः १६३ – मिथ्याजगत आत्मनोऽन्यो द्रष्टा वक्तव्य इति प्रश्नः

हे स्वामिन् श्रीसद्गुरो। को वास्य मिथ्याभूतजगतो द्रष्टा भवेत्। न ह्यस्य मिथ्याजगत आधाराधिष्ठानोभयात्मक आत्मैव द्रष्टा भवितुमर्हति। तथा अदृष्टत्वात्। तस्मात् सर्वजगत आधाराधिष्ठानभावेन स्थितत्वादात्मनस्तदन्येनैव केनचित् तद्द्रष्ट्रा भाव्यम्। सर्पाद्याधाराधिष्ठानभूतरज्वादेरन्य एव तद्द्रष्टा पुरुषो यथा भवति, तद्वत्। को वास्ति जगतोऽस्य द्रष्टा प्रत्यगात्मनोऽन्य इति शिष्यः पृच्छति