- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १६१-१६२ पूर्वप्रश्नस्योत्तरम्
आवर्तः १६२ – आत्मनः सामान्यरूपमाधारः विशेषरूपमधिष्ठानम्
अत्रेदमाकूतम् – रज्जोः स्वरूपद्वयमस्ति, एकं सामान्यरूपम्, अपरं विशेषरूपमिति च। तत्र ‘इयम्’ इति सामान्यरूपम्; ‘रज्जुः’ इति विशेषरूपम्।
‘अयं सर्पः’ इति भ्रान्तिदशायां मिथ्याभूतसर्पेण तादात्म्यापन्नं सद्भासमानं ‘अयम्” इति यत्स्वरूपं तत् सामान्यरूपम्। भ्रान्तिदशायां यत्स्वरूपं न भासते, यस्य स्वरूपस्य साक्षात्कारमात्रेण भ्रमो निवर्तते तदेव रज्जोः विशेषरूपम्।
एवम् आत्मनोऽप्येकः सामान्यरूपमपरं विशेषरूपमिति रूपद्वययमस्ति। तत्र सद्रूपं सामान्यरूपम्, असङ्गत्वकूटस्थत्वनित्यत्वशुद्धत्वमुक्तत्वादि विशेषरूपम्। तथा हि ‘स्थूलसूक्ष्मशरीरसङ्घातोऽस्ति’ इति कार्यकरणसङ्घातभ्रान्तिदशायामपि मिथ्याभूतकार्यकरणसङ्घातादभिन्नतया सद्रूपं प्रकाशते। अत एव सद्रूपमात्मनः सामान्यरूपम् इत्युच्यते। कार्यकरणसङ्घातभ्रमसमये आत्मनोऽसङ्गत्वकूटस्थत्वनित्यत्वशुद्धत्वमुक्तत्वादिस्वरूपं न प्रतिभाति। आत्मनोऽसङ्गत्वादिस्वरूपेण भाने तु शरीरादिसङ्घातभ्रमो निःशेषं निवर्तते। तस्मादसङ्गत्वकूटस्थत्वनित्यत्वशुद्धत्वमुक्तत्वाद्वितीयत्वव्यापकत्वादिकमात्मनो विशेषरूपम्।
समस्तभ्रमेषु सामान्यस्वरूम् आधारः इति विशेषरूपम् अधिष्ठानम् इति चोच्यते। मिथ्यासर्पाश्रयभूतरज्जोः ‘इयम्’ इति सामान्यरूपं सर्पस्याधारः, ‘रज्जुः’ इति विशेषरूपम् अधिष्ठानं च यथा भवति, तथा मिथ्याप्रपञ्चाश्रयभूतात्मनः सामान्यात्मकसद्रूपं प्रपञ्चस्याधारः, असङ्गत्वाद्वितीयत्वादिविशेषरूपम् अधिष्ठानं च भवति। अयं च विभाग आधाराधिष्ठानयोः श्रीमच्छङ्करभगवत्पादाचार्यप्रशिष्यभूतसर्वज्ञात्ममुनीन्द्रेण सङ्क्षेपशारीरकाख्यग्रन्थे प्रदर्शितः।