-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३३-१६८ पूर्वप्रश्नस्योत्तरम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३३-१६८ पूर्वप्रश्नस्योत्तरम्
आवर्तः १६१ – मिथ्याजगत आत्मैवाधारोऽधिष्ठानं च
हे शिष्य। त्वन्निजस्वरूपाज्ञानात् (आत्मनो ब्रह्मरूपेणाज्ञानात्) तवेदं मिथ्याजगत् प्रतिभासते। अतस्त्वमेवास्य जगत आधारोऽधिष्ठानं च। रज्ज्वज्ञानान्मिथ्याभूतः सर्पः प्रतिभासते। तत्र मिथ्याभूतसर्पादीनां रज्जुराधारोऽधिष्ठानं च भवति। यद्यपि मुख्यसिद्धान्तभूतद्वितीयपक्षे मिथ्यासर्पाद्यधिष्ठानं वृत्त्युपहितचैतन्यमिति प्रथमपक्षे रज्जूपहितचैतन्यमिति चोक्तत्वान्न कस्मिंश्चिदपि पक्षे रज्वादि जडमधिष्ठानं भवति, तथापि प्रथमपक्षे चैतन्यनिष्ठाधिष्ठानत्वे रज्जुरुपाधिर्भवतीत्यतः स्थूलदृष्ट्या रज्जुरेवाधिष्ठानमित्युच्यते। मिथ्याभूतसर्पादेर्यथा रज्जुरधिष्ठानमाधारश्च भवति तथा मिथ्याजगतस्त्वमेवाधिष्ठानमाधारश्च भवसि।