- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १५०-१५९ आक्षेपसमाधानानि
आवर्तः १५८ – मिथ्यासर्पस्य तज्ज्ञानस्य चाधिष्ठानं साक्ष्येवेति निरूपणम्
मिथ्यासर्पस्य तज्ज्ञानस्य च पृथगधिष्ठानत्वपक्षे दोषात्तयोरेकमेवाधिष्ठानमितीदानीं निरूप्यते। तत्र न हि बाह्यरज्ववच्छिन्नचैतन्यं सर्पस्य तज्ज्ञानस्य चाधिष्ठानं भवतीति शक्यते वक्तुम्। यावन्ति ज्ञानानि जायन्ते तानि सर्वाण्यपि प्रमातारं साक्षिणं वाश्रित्य जायन्त इति नियमः। तस्मात् बाह्यरज्ज्ववच्छिन्नचैतन्यं न सर्पज्ञानस्याश्रयो भवितुमर्हति। सर्पस्य तद्विषयकभ्रमरूपज्ञानस्य चाधिष्ठानमन्तःकरणोपहितसाक्षिचैतन्यमित्यभ्युपगमे शरीस्यान्तरेवान्तःकरणप्रदेशे सर्पोपलब्धिरभ्युपगन्तव्या स्यात्, न तु बाह्यरज्जुदेशे। अन्तरेवोत्पन्नः सर्पो मायाबलेन बहिरवभासते इत्यङ्गीकारे आत्मख्यातिमतसिद्धिः प्रसज्यते। तच्च प्रागेव खण्डितम्। इत्थं रज्जूपहितचैतन्यस्य सर्पज्ञानाधिष्ठानत्वासंभवात्, अन्तःकरणोपहितचैतन्यस्य सर्पाधिष्ठानत्वासंभवाच्च मिथ्यासर्पतज्ज्ञानयोरेकाधिष्ठानत्वपक्षो यद्यप्यसङ्गत इति भाति, तथापि वक्ष्यमाणरीत्या अन्तःकरणवृत्त्युपहितचैतन्यस्योभयाधिष्ठानत्वसंभवान्न दोषः।
तथा हि, चक्षुर्द्वारा रज्जुदेशं गतस्यान्तःकरणस्येदमाकारवृत्त्युपहितचैतन्याश्रिताविद्या सर्पाकारेण तज्ज्ञानाकारेण च परिणमते। वृत्त्युपहितचैतन्यस्थाविद्यायास्तमोगुणांशः सर्पस्योपादानकारणम्ः तस्या एव सत्त्वगुणांशः सर्पज्ञानस्योपादानकारणम्। एवं सर्पतज्ज्ञानयोर्वृत्त्युपहिचैतन्यमेवाधिष्ठानम्। अन्तःकरणवृत्तेर्बाह्यरज्जुदेशस्थत्वात्तद्वृत्त्युपहितचैतन्यमपि बहिरेवास्ते। अतस्तदेव सर्पस्याश्रयः। अन्तःकरणस्य स्वरूपं यावत्तावदेव साक्षिस्वरूपमपि। शरीरान्तःस्थान्तःकरणमेव वृत्तिरूपेण परिणतम्। तस्माद्वृत्त्युपहितचैतन्यं साक्षी भवति। अतस्तदेव सर्पज्ञानस्याश्रयः। रज्जुप्रत्यक्षकाले रज्जूपहितचैतन्यवृत्त्युपहितचैतन्ययोरेकीभावात् रज्जुज्ञानेनैव मिथ्यासर्पतज्ज्ञानयोर्निवृत्तिरुपपद्यते।