- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १५०-१५९ आक्षेपसमाधानानि
आवर्तः १५९ – एकस्यामेव रज्जौ नानापुरुषाणां भिन्नभिन्नभ्रमादपि साक्षिचैतन्यमेव भ्रमाधिष्ठानम्
किञ्चैकस्यामेव रज्ज्वां नानापुरुषाणां भिन्नभिन्नाः भ्रमाः भवन्ति – यथा कस्यचित् सर्प इति, अन्यस्य दण्ड इति, अपरस्य मालेति, एकस्य भूच्छिद्रमिति, इतरस्य तैलधारेति च। अथवा सर्वेषां सर्प इत्येकरीत्यैव भ्रमो जायताम्। तत्र यस्य पुरुषस्य रज्जुसाक्षात्कारो जायते तस्यैव तदीयवृत्त्यवच्छिन्नचैतन्ये कल्पितोऽध्यासो निवर्तते। यस्य तु रज्जुसाक्षात्कारो न भवति तस्याध्यासनिवृत्तिर्नास्ति। तस्मात् वृत्त्यवच्छिन्नचैतन्यमेव कल्पितानां सर्वेषामधिष्ठानम्, न तु रज्वादिविषयोपहितचैतन्यम्।
रज्जूपहितचैतन्यस्य सर्पदण्डाद्यधिष्ठानत्वे नानापुरुषाणां भिन्नभिन्नतया प्रतीयमानानि सर्पदण्डादीनि वस्तूनि सर्वाण्यपि, एकैकस्यापि पुरुषस्य प्रतीयेरन्; न तु तथा प्रतीयते। वृत्त्युपहितचैतन्यस्य मिथ्यासर्पाद्यधिष्ठानत्ववादिमतरीत्या तु न दोषः। यस्य पुरुषस्य वृत्त्युपहितचैतन्ये यद्वस्तु कल्पितं तद्वस्तु तस्यैव प्रतीयते, नान्यस्येति वक्तुं शक्यत्वात्।
इत्थं बाह्यभ्रमविषयसर्पादीनां तज्ज्ञानानां च वृत्त्युपहितसाक्षिचैतन्यस्वप्नोपलब्धपदार्थानां तज्ज्ञानानां चान्तःकरणोपहितमेवाधिष्ठानम्। साक्ष्येवाधिष्ठानम्।
एवं च सदसद्विलक्षणानर्वचनीयाविद्यायाः परिणामभूतानिर्वचनीयसर्पादीनां ख्यातिः प्रतीतिः प्रसिद्धिः = स्फुरणमभिवदनञ्च अनिर्वचनीयख्यातिः इत्युच्यते।