- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १५०-१५९ आक्षेपसमाधानानि
आवर्तः १५७ – सकलत्रिपुटीभानसमये साक्षिभानमवश्यं भवतीति निरूपणम्
अथवा कूटस्थदीपे विद्यारण्यमुनिभिरित्थमुक्तम् – ‘अन्तःकरणस्य वृत्तिश्चिदाभाससहिता चक्षुरादिकरणद्वारा बहिर्निर्गत्य घटादिविषयान् प्रकाशयति। तत्र घटादिरूपो विषयः, चिदाभाससहितवृत्तिरूपं घटादिविषयकं ज्ञानम्, चिदाभाससहितान्तःकरणरूपो ज्ञाता; एतत्त्रयमपि साक्षी प्रकाशयति’ इति।
अस्यायमर्थः – ‘अयं घटः’ इति ज्ञाने साभासान्तःकरणवृत्त्या घटमात्रं प्रकाशते। ‘घटमहं जानामि’ इत्यत्र तु ‘अहम्’ इति शब्दस्यार्थो यो ज्ञाता, ‘घट’ इति यो ज्ञेयः, ‘जानामि इति यत् घटविषयकं ज्ञानम्, इत्येतत् त्रयमपि त्रिपुटीरूपं साक्षी प्रकाशयतीति। ज्ञाता, ज्ञेयम्, ज्ञानं चेत्येतत् त्रयमपि त्रिपुटीत्युच्यते। इत्थमेव सर्वत्र निखिलत्रिपुटीप्रकाशकः साक्ष्येव। यदि साक्षी स्वयमज्ञातः स्यात् तदा त्रिपुटीज्ञानं न साक्षिणा ज्ञायेत। तस्मात् सकलत्रिपुटीज्ञानदशायां साक्षिज्ञानमप्यवश्यं जायत एव स्वयंप्रकाशत्वात्साक्षिणः, इत्यभ्युपेयम्। अनेन च साक्षिज्ञानेन सर्पज्ञानं निवर्तते। उक्तरीत्या सर्पादिमिथ्याविषयस्य तज्ज्ञानस्य च पृथगेवाधिष्ठानमित्यभ्युपगमपक्षे इयन्त्याक्षेपसमाधानानि समभवन्।