ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १५०-१५९ आक्षेपसमाधानानि


आवर्तः १५६ – रज्जुज्ञानसमये सर्पज्ञानाधिष्ठानभूतसाक्षिभानमपि संभवतीति समाधानम्

अथवा सर्पस्तज्ज्ञानं चेत्युभयमपि रज्जुज्ञानेनैव निवर्तते। तथा हि, रज्जुसाक्षात्कारसमयेऽन्तःकरणं नेत्रद्वारा बहिर्निर्गत्य रज्जुदेशं प्राप्य तत्समानाकारं भवति। अतो रज्जुसाक्षात्कारसमये वृत्त्युपहितचैतन्यं रज्जूपहितचैतन्यञ्चेत्युभयमप्येकीभवति। न तयोरस्ति भेदः।

अत्रायं हेतुः – न हि क्वचिदपि चैतन्यस्यास्ति भेदः स्वरूपतः, किन्तूपाधिनि बन्धन एव सः। वृत्त्युपहितचैतन्यस्य रज्जूपहितचैतन्यस्य च भेदप्रयोजकोपाधिर्वृत्ती रज्जुश्च। यदा वृत्ती रज्जुश्चेत्युपधिद्वयं विभिन्नदेशस्थं तदा तदुपहितचैतन्ययोर्भेदः सिद्ध्यति। यदा तूपाध्योरेकदेशस्थत्वं भवति तदा नोपहितचैतन्ययोर्भेदः। अयमर्थो वेदान्तपरिभाषादिग्रन्थेषु प्रसिद्धः। विभिन्नदेशस्थोपाधिभ्यामेवोपहितचैतन्ययोर्भेदः कल्प्यते। द्वयोरप्युपाध्योरेकदेशस्थत्वे तु ताभ्यामुपहितं चैतन्यमप्येकमेवेति सिद्ध्यति। उक्तरीत्या रज्जुसाक्षात्कारदशायां रज्जूपहितचैतन्यं वृत्त्युपहितचैतन्यञ्चेत्येतदुभयमेकीभवति। तत्र साक्षिचैतन्यमेव वृत्त्युपहितचैतन्यमित्युच्यते, अन्तःकरणे तद्वृत्तौ च स्थित्वाप्यसङ्गतया तयोरवभासकचैतन्यमात्रस्य साक्षित्वाभिधानात्। उक्तरीत्या रज्जुसाक्षात्कारसमये साक्षिचैतन्यस्य रज्जूपहितचैतन्यस्य चाभेदः सिद्धः। रज्जूपहितचैतन्यं च रज्जुज्ञानेनावभासते। रज्जुपहितचैतन्यादपृथग्भूतं साक्षिचैतन्यमपि रज्जुज्ञानेनैवावभासते। एवं रज्जुसाक्षात्कारसमये सर्पज्ञानाधिष्ठानभूतसाक्षिचैतन्यस्य भानसत्त्वात्, तत्र कल्पितसर्पज्ञानस्यापि निवृत्तिः संभवति।