ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १५०-१५९ आक्षेपसमाधानानि
- १५३-१५५ सर्पाभावात् सर्पज्ञानस्य कारणे लयरूपनिवृत्तिरिति समाधिः


आवर्तः १५५ – साक्षिज्ञानमन्तरापि सर्पज्ञानं निवर्तेतेति समाधानम्

अत्राप्युच्यते। निवृत्तिर्द्विविधा — *१ आत्यन्तिकनिवृत्तिः, कारणात्मनावस्थितिरूपा निवृत्तिश्चेति।

*१. पटस्य स्वोपादानभूततन्तुभिः सह दाहः आत्यन्तिकनिवृत्तिः। घटस्य ध्वंसे मृद्भावापत्तौ लयरूपनिवृत्तिः।

स्वकारणेन सहैव कार्यस्य निवृत्तिरात्यन्तिकी निवृत्तिरित्युच्यते। कल्पितवस्तूनां सर्वेषां कारणं तु तदधिष्ठानचैतन्याश्रिततदावारकाज्ञानमेव। तस्मादधिष्ठानचैतन्यापरोक्षज्ञानेनैवाज्ञानं तत्कार्यञ्च सर्वमारोपितं निःशेषं निवर्तते। कार्यस्य कारणे लयरूपनिवृत्तिस्तु विनाप्यधिष्ठानज्ञानं जायेत। सुषुप्तौ प्रलये च सकलपदार्थानां विनैवाधिष्ठानज्ञानमज्ञाने स्वकारणे लयो भवति। तदा सर्वदृश्यपदार्थलयहेतुस्तत्तद्भोगप्रदकर्मोपरम एव। एवमेवान्तराप्यधिष्ठानसाक्षिज्ञानम्, सर्पज्ञानं निवर्तते। तत्र सर्पज्ञानविषयीभूतसर्पाभाव एव सर्पज्ञाननिवृत्तेः कारणं भवति। इत्थं च रज्जुज्ञानेन सर्पो निवर्तते, ततश्च सर्पज्ञानविषयीभूतसर्पाभाव एव सर्पज्ञानस्य लयरूपनिवृत्तौ निमित्तं भवति।