ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १५०-१५९ आक्षेपसमाधानानि
- १५३-१५५ सर्पाभावात् सर्पज्ञानस्य कारणे लयरूपनिवृत्तिरिति समाधिः


आवर्तः १५४ – साक्षिज्ञानमन्तरा सर्पज्ञानं न निवर्तेतेत्याक्षेपः

ननु कथमधिष्ठानज्ञानमन्तरा तदारोपितभ्रमो निवर्तेत। सर्पज्ञानमपि कल्पितम्। तस्य ह्यधिष्ठानं साक्षिचैतन्यम्। तज्ज्ञानमन्तरा तत्र कल्पितसर्पज्ञानं न निवर्तेतेति चेत् —