ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १५०-१५९ आक्षेपसमाधानानि


आवर्तः १५२ – रज्जुज्ञानेन सर्पज्ञानं न निवर्तेतेत्याक्षेपः

रज्जुज्ञानेन सर्पज्ञानं न निवर्तेतेत्याक्षेपः ननूक्तप्रकारेण रज्जुज्ञानेन सर्पे निवृत्तेऽपि सर्पविषयकज्ञानं नैव निवर्तेत। सर्पस्याधिष्ठानं रज्ज्ववच्छिन्नचैतन्यम्, सर्पज्ञानस्याधिष्ठानं तु साक्षिचैतन्यमिति भेदः। उक्तरीत्या तु रज्जुसाक्षात्कारेण रज्ववच्छिन्नचैतन्यमेव प्रकाशेत, न साक्षिचैतन्यम्। अतो रज्जुज्ञाने उत्पन्नेऽपि सर्पज्ञानाधिष्ठानसाक्षिचैतन्यं नैव ज्ञायते। अज्ञाते चाधिष्ठाने तदारोपितनिवृत्तिर्न दृष्टा, किन्तु ज्ञाते एवाधिष्ठाने। तस्माद्रज्जुज्ञानेन सर्पज्ञानस्य निवृत्तिर्नोपपद्यत इति चेत् —