ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १५०-१५९ आक्षेपसमाधानानि


आवर्तः १५१ – रज्जुज्ञानमेव सर्पाद्यधिष्ठानज्ञानं भवतीति समाधिः

अत्रोच्यते – रज्ज्वादिजडपदार्थविषयकज्ञानमन्तःकरणवृत्तिरूपम्। वृत्तेस्तु प्रयोजनमावरणभङ्गः। इदञ्चावरणमज्ञानस्य शक्तिः। यस्मादावरणं जडमनाश्रित्य तदधिष्ठानचैतन्यमेवाश्रयति, तस्मादन्तःकरणवृत्त्या रज्ज्वादिविषयाकारापन्नया रज्ज्वाद्यवच्छिन्नचैतन्यावरणमेव भज्यते। वृत्तिस्थचिदाभासस्तु रज्जुमात्रं प्रकाशयति। चैतन्यस्य स्वयंप्रकाशरूपत्वात्तत्प्रकाशाय नाभास उपयुज्यते। अयमर्थो विस्तरतः उपरिष्टादस्मिन्नेव तरङ्गे कथयिष्यते। इत्थं चिदाभासविशिष्टान्तःकरणवृत्तिरूपज्ञानस्य केवलवृत्तिरूपांशश्चैतन्यनिष्ठावरणं नाशयति, चिदाभासरूपांशस्तु रज्जुं प्रकाशयतीति प्रयोजनद्वयं सिद्ध्यति। तस्माद्वृत्तिज्ञानस्य न केवलजडात्मकरज्जुर्विषयीभवति। किन्त्वधिष्ठानचैतन्येन सहिता रज्जुः चिदाभाससहिवृत्तेर्विषयीभवति। अत एव सिद्धान्तग्रन्थे ‘अन्तःकरणजन्यवृत्तिज्ञानं अखण्डं ब्रह्म विषयीकरोति’ इत्यभिहितम्। इत्थं यतो रज्जुज्ञानेन भग्नावरणं सत् सर्पाद्यधिष्ठानरज्ज्वाद्यवच्छिन्नचैतन्यं स्वयमेव प्रकाशते, ततो रज्जुज्ञानमेव सर्पाद्यधिष्ठानज्ञानरूपमपि भवति। ततश्च रज्जुज्ञानेन सर्पादिनिवृत्तिर्युज्यत एव।