ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः

- १३३-१६८ आक्षेपसमाधानानि

आवर्तः १५० – रज्जुज्ञानेन सर्पनिवृत्तिर्न स्यादित्याक्षेपः

ननु रज्वादिज्ञानेन न सर्पादिर्निवर्तेत। मिथ्यावस्तुनो यदधिष्ठानम्, तज्ज्ञानेनैव मिथ्यावस्तु निवर्तेतेत्यद्वैतसिद्धान्तः। मिथ्याभूतसर्पाद्यधिष्ठानं तु रज्वाद्युपहितचैतन्यमेव, न रज्ज्वादिरिति प्रागभिहितम्। तस्माद्रज्वादिज्ञानेन न सर्पादिनिवृत्तिर्भवेदिति चेत् —