ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १४६-१४९ सिद्धान्तिनोऽनिर्वचनीयख्यातिनिरूपणम्


आवर्तः १४९ – रज्जुसर्पतज्ज्ञानयोः क्रमेण रज्जूपहितचैतन्यमन्तःकरणोपहितचैतन्यं चाधिष्ठानम्। तज्जुतत्त्वज्ञानं तयोर्निवर्तकम्

मिथ्याभूतसर्पाद्यधिष्ठानं रज्वाद्युपहितचैतन्यमेव, न तु रज्वाद्यचेतनम्; रज्वादेरपि सर्पादिवत्कल्पितत्वात्। न ह्येकं कल्पितं वस्तु कल्पितवस्त्वन्तरस्या धिष्ठानं भवेत्। अतो रज्वाद्युपहितचैतन्यमेव सर्पाद्यधिष्ठानम्, न रज्वाद्यचेतनम्। रज्जुविशिष्टचैतन्यस्याधिष्ठानत्वाङ्गीकारे, उभयोः रज्जोश्चैतन्यस्य चाधिष्ठानत्वं भवेत्। तत्र रज्जोरधिष्ठानत्वस्य बाधितत्वात्, रज्जूपहितचैतन्यमेवाधिष्ठानं न तु रज्जुविशिष्टचैतन्यम्। तथा सर्पादिज्ञानस्यापि साक्षिचैत न्यमेवाधिष्ठानम्। इत्थं सर्वत्र भ्रमस्थले विषयस्य तज्ज्ञानस्य चोपाधिभेदादधिष्ठानं भिद्यते, नत्वेकम्। विशेषरूपेण रज्जोरज्ञानं यथाविद्यायां क्षोभोत्पादनद्वारा सर्पादेस्तज्ज्ञानस्य च कारणं तथा विशेषरूपेण रज्जुज्ञानं तदुभयोर्निवृत्तिकारणं भवति।