ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १४६-१४९ सिद्धान्तिनोऽनिर्वचनीयख्यातिनिरूपणम्


आवर्तः १४८ – रज्जुसर्पः तज्ज्ञानं चाविद्यायाः परिणामश्चेतनस्य विवर्तश्च

अनिर्वचनीयरज्जुसर्पादिस्तज्ज्ञानं च भ्रम इति अध्यास इति चोच्यते। अयं च भ्रमोऽविद्यायाः परिणामश्चैतन्यस्य विवर्तश्च भवति। उपादानकारणसमस्वभावकोऽन्यथाभावः परिणामः, अधिष्ठानविषमस्वभावकोऽन्यथाभावो विवर्त इति च विवेकः। उपादानकारणं अविद्या, सा चानिर्वचनीया। तथा रज्जुसर्पादि तज्ज्ञानञ्चानिर्वचनीयमेव। तस्माद्रज्जुसर्पादि तज्ज्ञानञ्चाविद्यासमस्वभावकतदन्यथाभावरूपत्वादविद्यापरिणामो भवति। रज्ज्वाद्यवच्छिन्नाधिष्ठानचैतन्यं तु सत्स्वरूपमास्ते। रज्जुसर्पादि तज्ज्ञानं हि सद्विलक्षणं भवति। तस्माद्रज्जुसर्पादि तज्ज्ञानं च स्वाधिष्ठानचैतन्याद्विरुद्धस्वभावकतदन्यथाभावरूपत्वाच्चैतन्यविवर्तो भवति। ततो रज्जुसर्पादि तज्ज्ञानञ्चाविद्यापरिणामः, चैतन्यस्य विवर्तश्चेति सिद्धम्।