- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १४६-१४९ सिद्धान्तिनोऽनिर्वचनीयख्यातिनिरूपणम्
आवर्तः १४७ – भ्रमस्थले सर्पज्ञानमप्यविद्यापरिणामः, सर्पतज्ज्ञानयोर्युगपदेवोत्पत्तिलयौ, सर्पः साक्षिभास्यश्च
यथा सर्पादिरविद्यापरिणामस्तथा तादृशसर्पादिज्ञानरूपवृत्तिरप्यविद्यापरिणाम एव न त्वन्तःकरणपरिणामः। अत एवाधिष्ठानरज्ज्वादिसाक्षात्कारेण आरोपितसर्पादिरिवारोपितसर्पादिज्ञानमपि बाध्यते। तस्यान्तःकरणपरिणामत्वे तु न बाधो युज्यते। अतः आरोपितसर्पादिवत् तज्ज्ञानमप्यविद्याकार्यत्वात् सदसद्विलक्षणमनिर्वचनीयं भवति। अपि त्वयं विशेषः – प्रातिभासिकसर्पादिः रज्ज्वाद्युपहिताधिष्ठानचैतन्यस्थतमोगुणप्रधानाविद्यांशपरिणामः। तद्विषयकवृत्तिज्ञानन्तु इदमाकारवृत्त्यभिव्यञ्जकसाक्षिचैतन्यस्थसत्त्वगुणप्रधानाविद्यांशपरिणाम इति विवेकः। रज्ज्वाद्युपहितचैतन्यस्थाविद्या यदा सर्पाद्याकारेण परिणमते, तदैव तद्वृत्त्युपहितसाक्षिचैतन्यस्थाप्यविद्या सर्पादिज्ञानाकारेण परिणमते येन कारणेन रज्ज्वाद्युपहितचैतन्यस्थाविद्यायां *२ क्षोभो जायते तेनैव कारणेन साक्षिचैतन्यस्थाविद्यायामपि क्षोभा जायते। तस्माद्भ्रमस्थले सर्पादिविषयास्तज्ज्ञानानि च युगपदेवोत्पद्यन्ते, रज्ज्वाद्यधिष्ठानसाक्षात्कारेण युगपदेव प्रलीयन्ते च। इत्थं च भ्रमस्थले बाह्यचैतन्यस्थाविद्यांशः सर्पादिविषयोपादानाकारणं *१ भवति। अन्तःसाक्षिचैतन्यस्थाविद्यांशः सर्पादिविषयकज्ञानरूपवृत्त्युपादानकारणं भवति। स्वप्ने त्वन्तःसाक्ष्याश्रयाविद्यागततमोगुणांशो विषयाकारेण परिणमते, तादृशाविद्यागतसत्त्वगुणांशस्तज्ज्ञानाकारेण परिमते। अत एव स्वप्नेऽन्तःस्थाविद्यैव विषयतज्ज्ञानयोरुभयोरुपादानकारणं भवति। अनेनैव हेतुना बाह्यरज्जुसर्पादयः आन्तरस्वाप्निकपदार्थाश्च साक्षिभास्या इत्युच्यन्ते। अविद्यावृत्तिद्वारा यद्यत् साक्षी प्रकाशयति तत्तत् साक्षिभास्यमित्युच्यते।
*२. उपादानस्य कार्याभिमुखत्वं क्षोभः।
*३. उदाहरणम् – यथा घटं प्रति मृदुपादानकारणम्। कुलालादिर्निमित्तकारणम्।