ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः

- १३३-१६८ सिद्धान्तिनोऽनिर्वचनीयख्यातिनिरूपणम्

आवर्तः १४६ – अनिर्वचनीयख्यातिलक्षणम्

अन्तःकरणवृत्तिश्चक्षुरादिकरणद्वारा बहिर्निर्गत्य विषयसमानाकारा भवति। तया वृत्त्या विषयावरणभङ्गे सति विषय उपलभ्यते। तस्या वृत्तेः सौराद्यालोकोऽपि साधको भवति। आलोकं विना पदार्थो न प्रकाशते, तस्मादालोकः सहकारी; इति क्रमः।

रज्ज्वादौ सर्पादिभ्रमोत्पत्तिदशायामन्तःकरणवृत्तिश्चक्षुर्द्वारा बहिर्निर्गत्य रज्ज्वा सह संयुज्यते। तथापि सा *१ तमआदिदोषैः प्रतिबद्धा सती न रज्जुसमानाकारा भवति। ततो न रज्जोरावरणभङ्गो जायते। इत्थमावरणभञ्जकवृत्तिसंसर्गे सत्यपि यदा दोषैः रज्वामावरणभङ्गो न जायते तदा अधिष्ठानभूतरज्ववच्छिन्नचैतन्यनिष्ठाविद्यायां कश्चन विक्षेपो *० जायते।

*० – अत्र ‘विक्षेपो जायते’ इत्यस्य स्थाने ‘विक्षेपः प्रकाशते’ इति पाठो वरः स्यात्।

तदा साविद्या सर्पाकारेण परिणमते। स चाविद्याकार्यभूतः सर्पो यदि सन् स्यात्, न स रज्जुसाक्षात्कारेण निवर्तेत; निवृत्तिश्चानुभूयते। तस्मान्नैव सन् स सर्पः। अत्यन्तासंश्चेत् स्यात्स सर्पो वन्ध्यापुत्रादिवन्नोपलभ्येत, उपलभ्यते। तस्मान्नाप्यसन् स सर्पः। किन्तु *२ सदसद्विलक्षणोऽनिर्वचनीयः। एवमेव शुक्त्याद्यधिकरणेष्वपि आरोपितरजतादयस्तात्कालिकतया अनिर्वचनीयतयोत्पन्नाः सन्तः प्रतिभान्ति। अस्यनिर्वचनीयस्य सर्पादेः ख्यातिः प्रसिद्धिः प्रतीतिः = स्फुरणमभिवदनञ्चानिर्वचनीयख्यातिरित्युच्यते।

*१. तमः शब्देन मन्दान्धकारो गृह्यते। तथा हि प्रौढप्रकाशे रज्वाद्यधिष्ठानस्य विशेषांशाज्ञानं न जायेत। गाढतमसि अधिष्ठानस्य सामान्यांशज्ञानमपि न जायेत। अधिष्ठानस्य सामान्यांशज्ञानम्, विशेषांशाज्ञानं च विना अध्यासो नैव जायेतेति द्वितीयतरङ्गे (६७) आवर्तेऽभिहितम्। मन्दान्धकारे अधिष्ठानसामान्यांशज्ञानतद्विशेषांशाज्ञानयोः संभवात्तमः शब्देन मन्दान्धकारग्रहणमेव न्याय्यम्। नेत्रमान्द्यरूपतिमिरदोषोऽपि तमःशब्देन गृह्यते। आदिशब्देन काचकामलादिनेत्ररोगाश्च गृह्यन्ते।

*२. ननु सद्विलक्षणमसत्। अतः सद्विलक्षणस्यानिर्वचनीयस्यासद्विलक्षणत्वोक्तिर्विरुच्यते। तथासतो विलक्षणं सदेव। अतोऽसतो विलक्षणस्यानिर्वचनीयस्य सद्विलक्षणत्वोक्तिरप्यसङ्गतैव। तस्मात् सदसद्विलक्षणतृतीयपदार्थस्यैवाभावादनिर्वचनीयपदात् शाब्धबोध एव नोदेष्यतीति चेन्न। त्रिकालाबाध्यत्वस्यैव सत्त्वात्, तद्विलक्षणमित्यस्य कालत्रयेऽपि बाध्यमित्यर्थः सिद्ध्यति। निःस्वरूपवन्ध्यापुत्रादि असदित्युच्यते। ततो विलक्षणमित्यस्य स्वरूपवदित्यर्थः। तस्माद्बाध्यत्वे सति स्वरूपवत्त्वमनिर्वचनीयपदस्यार्थः। तथा च रज्जुसर्पादिरिव प्रपञ्चस्यप्यनिर्वचनीयतयैव भानं वेदान्तनिपुणानां भवति।