-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १४४-१४५ अख्यातिमतखण्डनम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १४४-१४५ अख्यातिमतखण्डनम्
आवर्तः १४५ – बाधज्ञानबलादपि रज्जौ सर्पानुभवो वाच्यः
किञ्च रज्जुयाथात्म्यज्ञानानन्तरं ‘मम मिथ्यासर्पो रज्वामभात्’ इति बाधरूपानुभवबलादपि पुरुषस्य रज्जावेव सर्पः स्वरूपतः प्रतीतः, न तु पूर्वानुभूतसर्पस्मरणमात्रमभवदिति वक्तव्यं भवति। अपि च ‘अयं सर्पः’ इत्यत्र जायमानं ज्ञानमेकमेव, न तु ज्ञानद्वयम्। न ह्येकस्मिन् क्षणे एकान्तःकरणवृत्तित्वेन स्मरणात्मकमनुभवात्मकं च ज्ञानद्वयं जायेत। तस्मादख्यातिमतमप्यसङ्गतत्वादनुपादेयमेव। पूर्वोक्तमतचतुष्टयलक्षणं तत्खण्डनादिकं च विवरणस्वाराज्यसिद्ध्यादिग्रन्थेषु विस्तरतो वर्णितम्। तेषां मतानां स्वरूपमात्रजिज्ञासूनां ज्ञानसौकर्यार्थं तत् सङ्क्षिप्योक्तमत्र।