ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः

- १३३-१६८ अख्यातिमतखण्डनम्

आवर्तः १४४ – भयपलायनाद्यनुपपत्त्या रज्जौ सर्पानुभवो वाच्यः

हे सोम्य। भ्रमस्थले असत्ख्यातिः, आत्मख्यातिः, अन्यथाख्यातिः, अख्यातिः इत्येतन्मचतुष्टयमपि युक्तिविरहितम्। पूर्वोक्तमतचतुष्टयविलक्षणमनिर्वचनीयख्यातिनामकं मतान्तरमस्ति पञ्चमम्; तदेवोपादेयम्। पूर्वोक्तासत्ख्यात्यादिमतत्रयं नोपादेयमित्यख्यातिवादिना दर्शितः; अख्यातिमतमपि नोपादानमर्हतीति प्रदर्श्यतेऽधुना।

अख्यातिमतरीत्या ‘अयं सर्पः’ इति ज्ञाने ‘अयम्’ इति रज्वात्मकाधिष्ठानसामान्यांशप्रत्यक्षज्ञानम्। ‘सर्पः’ इति त्वन्यत्र पूर्वदृष्टसर्पस्य स्मरणात्मकज्ञानमिति स्थितिः। तत्र पूर्वदृष्टसर्पस्मरणमेवाङ्गीकृत्य पुरोवर्तिरज्जौ सर्पज्ञानानङ्गीकारे, पुरोऽवस्थितरज्जुं दृष्ट्वा पुरुषो भीत्या न पलायेत, रज्जुं दृष्ट्वा पुरुषः पलायत इति तु सर्वजनीनम्। तस्मात्पुरोऽवस्थितरज्ज्वामेव सर्पः प्रत्यक्षतया भासते इति, न तु पूर्वदृष्टसर्पस्मरणमात्रमिति च वाच्यम्। अन्यथा रज्जौ सर्पज्ञानाभावेन पुरुषस्य पलायनादि नोपपद्येत।