- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३८-१४३ शिष्यः स्वप्रश्नस्याशयं वर्णयति
आवर्तः १४३ – अख्यातिमतं, पूर्वोक्तमतत्रयखण्डणं च
तत्राख्यातिवादिनोऽयमाशयः – असत्ख्यातिमतरीत्या यद्यसदपि प्रतीयेत तर्हि वन्ध्यापुत्रशशशृङ्गादयोऽपि प्रतीयेरन्। तथा प्रतीत्यभावादसङ्गतमेवासत्ख्यातिमतम्।
यदि क्षणिकविज्ञानवादिमतरीत्या प्रतिक्षणमन्यथा भवन्ती बुद्धिः सर्पाद्याकारतां प्राप्नुयात्तदा क्षणादूर्ध्वं तस्य सर्पस्य प्रतीतिर्न स्यात्। परन्तु यावद्भ्रमकालं सर्पप्रतीतिरनुवर्तते। तस्मादात्मख्यातिमतमप्यनुपादेयमेव।
अन्यथाख्यातेः प्रथमः प्रकारः चिन्तामणिकारमतेन खण्डितः। चिन्तामणिकारप्रदर्शितान्यथाख्यातिप्रकारोऽप्यसङ्गत एव। ‘ज्ञेयाधीनं ज्ञानम्’ इति हि प्रसिद्धिः। अत्र तु ज्ञेया रज्जुः, ज्ञानं तु सर्पविषयकमिति सुतरां विरुद्धमुच्यते। तस्माच्चिन्तामणिकाराभिमतान्यथाख्यातेरादरानर्हत्वात्, अख्यातिरेव शरणमिति साङ्ख्याः प्राभाकराश्चाहुः।
अख्यातिमतम्
रज्जौ सर्पादिभ्रमदशायां नेत्रं स्ववृत्तिद्वारा रज्वा सह संयुज्य ‘अयम्’ इति रज्जोः सामान्यज्ञानं जनयति। तदा सर्पस्मरणं च जायते। ततः ‘अयं सर्पः’ इति ज्ञानं जायते। तत्र ग्रहणस्मरणात्मकज्ञानद्वयमस्ति। ‘अयम्” इति रज्जोः सामान्यांशप्रत्यक्षज्ञानम्। ‘सर्पः’ इति तु पूर्वानुभूतसर्पस्य स्मरणरूपमपरं ज्ञानम्। इत्थम् ‘अयं सर्पः’ इत्यत्र ज्ञानद्वयमस्ति। अत्र ‘अयम्’ इति रज्जोः सामान्यांशज्ञानस्य पूर्वानुभूतसर्पस्मरणरूपज्ञानस्य च परमार्थत्वेऽपि भयरूपप्रमातृदोषेण तिमिररूपप्रमाणदोषेण च मम ज्ञानद्वयमभूत् तत्रैकं रज्जुसामान्यांशप्रत्यक्षं सर्पस्मरणरूपज्ञानमपरमिति, विवेकः पुरुषस्य नोत्पद्यते। एतज्ज्ञानद्वयाविवेक एव भ्रम इति साङ्ख्याः प्राभाकराश्च वदन्ति। भ्रमोत्पत्तिस्थले च सर्वत्रैवमेव बोज्यमिति चाहुः।
एवं रज्ज्वादौ सर्पादिभ्रमोत्पत्तिविषये *१ मतचतुष्टयं पूर्वोक्तप्रकारेण श्रूयते। तत्र भवदभिमतमुत्तमं मतं यत्, तद्भवदुपदेशाद्विजिज्ञासे इति तत्त्वदृष्टिः पृच्छति।
*१. पूर्वोक्तमतचतुष्टयातिरिक्तं ‘सत्ख्यातिः’ इति पञ्चमं पूर्वपक्षिमतमस्ति। तन्मतरीत्या शुक्तौ शुक्त्यवयवैः सह रजतावयवोऽपि सदा वर्तते। शुक्त्यवयववद्रजतावयवोऽपि सत्यः, न मिथ्या। यथा शुक्तौ दुष्टनेत्रेन्द्रियसंप्रयोगवशात् सिद्धान्तेऽविद्यापरिणामरूपानिर्वचनीयरजतं तत्काले जायते, तथात्र मते दुष्टनेत्रेन्द्रियसंप्रयोगवशाद्रजतावयवेभ्यः सत्यरजतमपि शुक्तौ जायते। सिद्धान्ते अधिष्ठानसाक्षात्कारादनिर्वचनीयरजतनिवृत्तिवत् अत्र शुक्तिज्ञानात् सत्यरजतमपि स्वावयवेषु लीयत इति वदन्ति। इदमपि मतं हेयमेव। शुक्तिरजतदृष्टान्तेन हि प्रपञ्चमिथ्यात्वानुमितिर्जायते। सत्ख्यातिवादे तु शुक्तिरजतस्य सत्यत्वात् तद्दृष्टान्तेन न प्रपञ्चमिथ्यात्वं साधयितुं शक्यते। एतन्मतखण्डनपरयुक्त्यन्तराणि बालानां दुर्बोधत्वान्नेह लिख्यन्ते