-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३८-१४३ शिष्यः स्वप्रश्नस्याशयं वर्णयति
- १४१-१४२ अन्यथाख्यातिः
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३८-१४३ शिष्यः स्वप्रश्नस्याशयं वर्णयति
- १४१-१४२ अन्यथाख्यातिः
आवर्तः १४२ – अत्र नव्यनैयायिकचिन्तामणिकारमतम् *३
*३. चिन्तामणिकारमते एकस्य वस्तुनो रूपान्तरेण भासमानता भ्रान्तिरिति कथ्यते। अयमेव ज्ञानाध्यासः।
दोषसहितचक्षुषा वल्मीकगतः सर्पो यदि दृश्येत तर्हि *४ मध्यस्थपदार्थान्तरदर्शनमप्यापद्यते। तस्माद्व्यवहितं वस्तु न नेत्रेण गृह्यते। किन्तु दुष्टनेत्रस्य रज्जुर्न स्वस्वरूपेण भासते, भासते तु सर्पाद्याकारेण। तस्मात् रज्जो, अन्यथा प्रकारान्तरेण सर्पाद्याकारेण ख्यातिः = स्फुरणमभिवदनं चान्यथाख्यातिरिति।
*४. दोषबलादट्टस्थरजतं यदि शुक्तौ भ्रान्तिदेशे भासेत, तदा आपणं तत्स्थसुवर्णादिनिखिलं वस्तु दोषवशादुपलभ्येत। न चैवमुपलभ्यते।