ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३८-१४३ शिष्यः स्वप्रश्नस्याशयं वर्णयति

- १३८-१४३ अन्यथाख्यातिः

आवर्तः १४१ – तत्र नैयायिकवैशेषिकाणां मतम्

वल्मीकादौ पारमार्थिकसर्पोऽस्ति। व्यवहितोऽपि स सर्पश्चक्षुषा गृह्यते। चक्षुर्गतदोषबलात् व्यवहितोऽपि सर्पः पुरतश्चक्षुः सन्निकृष्टो भाति। पारमार्थिकसर्पस्य चक्षुषश्च मध्ये कुड्यादिरूपव्यवधानसत्त्वेऽपि दोषसचिवचक्षुषा व्यवहितसर्पोऽपि गृह्यत एव।

ननु दोषसमवधानेन वस्तुनः सामर्थ्यहानिरेव दृश्यते, न वृद्धिः। यथा वातपित्तकफादिदोषैर्जाठराग्नेरशितपीतपचनशक्तिः कुण्ठिता भवति, तथा तिमिरादिदोषैश्चक्षुषः शक्तिरपि कुण्ठितैव भवेत्। किञ्च, तदि वल्मीकस्थः सर्पो दोषसिहतचक्षुषा गृह्यते, तर्हि शुद्धनेत्रेण व्यवहितवस्तुप्रत्यक्षं न भवति, किन्तु दुष्टनेत्रेणैवेति *१ वक्तव्यम्। तस्माद्दोषसहितचक्षुषः सामर्थ्यं वर्धत इत्यत्र दृष्टान्तो नास्तीति चेत्।

*१. व्यवहितं वस्तु शुद्धनेत्रेण नोपलभ्यते, किन्तु दुष्टनेत्रेणोपलभ्यत इत्युक्तिर्लोकविरुद्धा।

नायं दोषः दृष्टान्तसद्भावात्। तथा हि पित्ताधिक्यप्रयुक्तभस्मकरोगाभिभूतस्य कस्यचिच्चतुर्गुणितमप्यन्नं क्षुधां शमयितुं नालं भवति। तत्र पित्तदोषेण यथा जाठराग्नेः पाचनशक्तिर्वर्धते, तथा चक्षुषोऽपि दोषैर्व्यवहितसर्पादिप्रत्यक्षीकरणशक्तिर्वर्धत इति वक्तुं युक्तम्। इत्थं च वल्मीकादिप्रदेशान्तरे स्थितसर्पस्य, अन्यथा = प्रकारान्तेण = पुरोऽवस्थितरज्जुदेशे ख्यातिः = स्फुरणमभिवदनं च *२ अन्यथाख्यातिरिति कथ्यते।

*२. इदं प्राचीनमतम्। अस्मिन्मते देशान्तरस्थवस्तुनो देशान्तरे भानमेव भ्रान्तिरित्युच्यते। सिद्धान्तोक्तार्थाध्यासज्ञानाध्यासरूपभ्रान्तिर्नास्मिन् मतेऽभ्युपगम्यते।