-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३८-१४३ शिष्यः स्वप्रश्नस्याशयं वर्णयति
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३८-१४३ शिष्यः स्वप्रश्नस्याशयं वर्णयति
आवर्तः १४० – आत्मख्यातिः
विज्ञानवादिनोऽभिप्रायस्तु रज्जौ वान्यत्र वा बुद्धेर्बहिः कुत्रचिदपि न सर्पोऽस्ति। एवं सकलपदार्था अपि न बुद्धेर्बहिर्वर्तन्ते। बुद्धिरेव सकलपदार्थानामाकारान् धत्ते। सा च बुद्धिः क्षणिकविज्ञानरूपा। प्रतिक्षणमुत्पत्तिविनाशशालि यद्विज्ञानं तदेव सर्पात्मना अवभासते। इयमात्मख्यातिरिति वर्ण्यते। आत्मा = क्षणिकविज्ञानरूपा बुद्धिः, तस्याः ख्यातिः = स्फुरणमभिवदनञ्चात्मख्यातिरिति।