ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १३८-१४३ शिष्यः स्वप्रश्नस्याशयं वर्णयति


आवर्तः १३९ – असत्ख्यातिः

तत्रासत्ख्यातिमङ्गीकुर्वतां शून्यवादिनामेवमाशयः रज्जौ तावत्सर्पोऽत्यन्तमसन्। तथैवान्यात्रापि (वल्मीकादावपि) सर्पोऽत्यन्तमसन्नेव। एवमत्यन्तासतः सर्पस्य प्रतीती रज्जौ भवति। इमामेवासत्ख्यातिमाहुः शून्यवादिनः। अत्यन्तासतः सर्पस्य ख्यातिः स्फुरणमभिवदनं चासत्ख्यातिरिति।