ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः

- १३३-१६८ शिष्यः स्वप्रश्नस्याशयं वर्णयति

आवर्तः १३८ – ख्यातिचतुष्टयम्

रज्जुसर्पशुक्तिरजतादिभ्रमविषये मतचतुष्टयं श्रूयते। तत्र (१) शून्यवादी असत्ख्यातिमाह। (२) क्षणिकविज्ञानवादी आत्मख्यातिमाचष्टे। (३) नैयायिका वैशेषिकाश्चान्यथाख्यातिमातिष्ठन्ते। (४) साङ्ख्याः प्राभाकराश्चाख्यातिं वदन्ति।