ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः


आवर्तः १३७ – रज्जौ सर्पप्रतीतिः कथमिति प्रश्नः

रज्जौ प्रतीयमानसर्पादयो यथा मिथ्या तथैव प्रत्यगात्मनि प्रतीयमानसंसारदुःखमपि मिथ्येति यदुक्तम्, तत्र दृष्टान्तज्ञानमन्तरा दान्तिकज्ञानासंभवाद्रज्जौ सर्पः कथमवभासत इति प्रथमतस्तावन्मां बोधयन्तु भवन्त इति शिष्यो दृष्टान्तविषये पृच्छति।