ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः


आवर्तः १३६ – संसारप्रतीतिर्मिथ्येति गुरोरुत्तरम्

संसारप्रतीतिर्मिथ्येति गुरोरुत्तरम् जननमरणादिप्रवाहरूपं जगत् परमार्थतः कालत्रयेऽप्यसदपि, प्रत्यगात्मैव ब्रह्मेत्यजानतां केवलं मिथ्याभूतमवभासते। यथा स्वप्ने अनुभूयमानपदार्थाः, आकाशे नैल्यं, रज्जौ सर्पादयश्च परमार्थतः कालत्रयेऽपि *२ असन्तोऽपि मिथ्यैवावभासन्ते , तद्वज्जगत् परमार्थतोऽसदपि मिथ्यारूपेणावभासते।

*२. अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥ भा. पु. ३.२७.४॥

अविद्यमानोऽप्यवभासते द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा।
तत्कर्म सङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात्॥ भा. पु. ११.२.३८॥
इति भागवते।

अस्ति प्रतीत्यवसरे न पुरा न पश्चात् आश्चर्यमेतदवभाति तथापि विश्वम्।
यद्वा किमद्भुतमिवेह महेन्द्रजालं मायाविकल्पितमपि प्रतिभासते हि॥३॥