ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः


आवर्तः १३५ – असतः संसारस्य कथं प्रतीतिरिति प्रश्नः

हे कृपालो सद्गुरो। जननमरणादिसंसारदुःखं मयि वान्यत्र वा कुत्रचिदपि न स्याच्चेत्, कथं तर्हि तत्प्रत्यक्षीभवति। न ह्यत्यन्तासद्वस्तु कदाचिदप्युपलभ्यते। वन्ध्यापुत्रगगनारविन्दाद्यसद्वस्तुवत् संसारोऽप्यत्यन्तासंश्चेन्न कदाचिदप्युपलभ्येत, उपलभ्यते तु तस्माज्जन्ममरणादिदुःखरूपः संसारो नास्तीत्युक्तिर्न युज्यते; इति शिष्यः पृच्छति।