ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १३३-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः


आवर्तः १३४ – न कस्यापि संसारोऽस्तीति गुरोरूतरम्

हे शिष्य। शृणु मे वचनम्, तेन ते सर्वसंशयनिवृत्तिः स्यात्। जननमरणादिसंसारदुःखं न कुत्रचिदप्यस्ति। अनुभूयमानमपीदं दृश्यं जगत् कालत्रयेऽपि त्वयि मयि अन्यत्र वा कुत्रचिदप्यणुमात्रमपि नास्त्येव। अत एवास्य जगतः *१ अत्यन्तनाशः न कुत्रचिदपि संभवति। इति।

*१. यथा रज्जौ कल्पितसर्पस्य व्यावहारिकसत्तयाऽत्यन्ताभावोऽस्ति तथा ब्रह्मणि कल्पितस्य जगतः पारमार्थिकसत्तयात्यन्ताभावोऽस्ति। तथा च पारमार्थिकसत्तया जगतोऽत्यन्ताभाव एव तस्य नित्यनिवृत्तिरित्युच्यते।