-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १२९-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १२९-१६८ दुःखविषयकप्रश्नप्रत्युक्तयः
आवर्तः १३३ – सांसारिकदुःखस्याश्रयप्रश्नः
हे सद्गुरो स्वामिन्। ‘त्वं परमानन्दस्वरूपोऽसि’ इति भवता यदुक्तं प्राकू, तदहं सम्यग्जानामि। ‘जननमरणादिसंसाररूपमहादुःखं कालत्रयेऽपि त्वयि नास्त्येव; अतस्तन्निवृत्तये तवेच्छात्यन्तासङ्गतेति’ भवदुक्तविषये तु कश्चन संशयो भवति। यद्यनुभूयमानमिदं जननमरणादिदुःखं मयि नास्ति, तर्हि मदन्यं कमाश्रित्य तदवतिष्ठते इति दयया मे वद भोः। संसारदुःखस्याश्रयान्तरावगमे हि मयि तन्नास्तीति मम दृढा प्रतीतिः स्यादिति शिष्यः पृच्छति।